Skip to main content

Shiv Mahimna Stotra Lyrics in Sanskrit with Meaning

Shiva Mahimna

Pushpadanta was a Gandharva, who was a devotee of Bhagwan Shiva. Once he was wandering in earth and he saw a beautiful garden. This garden was made by King Chitraratha.

The King came every day to take flowers from the garden for worshiping lord Shiva. When Pushadanta saw the flowers, he could not stop himself from picking the flowers.

Pushpadanta started to pick flowers everyday from the garden. He didn't get caught because of his dissappearing powers. The king got stressed out and he scattered Bilwa Patra (bilwa leaves) which was used to worship Lord Shiva. 

Unaware of this, Pushpadanta put his feet on those holy leaves. Lord Shiva got angry on him and took away his divine powers.

Pushpadanta was a devotee of Shiva, so he realized his wrong and requested forgiveness from Lord. He then created this Shiva Mahimna Stotra to worship Shiva.

शिवमहिम्न स्तोत्र लिरिक्स

महिम्नः पारम् ते परमविदुषो यद्यसदृशी
स्तुतिर्ब्रह्मा-दीनामपि तदवसन्नास्त्वयि गिरः
अथावाच्यः सर्वः स्वमतिपरिणामावधि गृणन्
ममाप्येष स्तोत्रे हर निरपवादः परिकरः .1

अतीतः पन्थानम् तव च महिमा वाड्मनसयो-
रताव्द्यावृत्त्या यं चकितमभिधत्ते श्रुतिरपि
स कस्य स्तोतव्यः कतिविधगुणः कस्य विषयः
पदे त्वर्वाचीने पतति न मनः कस्य न वचः .2

मधुस्फीता वाचः परमम्-अमृतं निर्मितवत-
स्तव ब्रह्मन् किं वागपि सुरसुरोर्विस्मयपदं
मम त्वेतां वाणीं गुणकथनपुण्येन भवतः
पुनामीत्येर्थेऽस्मिन् पुरमथन बुद्धिर्व्यवसिता .3

तवैश्चर्यम् यत्तज्जगदुदयरक्षा-प्रलयकृत्
त्रयी वस्तुव्यस्तम् तिसृषु गुणाभिन्नासु तनुषु
अभव्यानाम्-अस्मिन् वरद रमणीयामरमणीम्
विहन्तुम् व्याक्रोशीं विदधत इहैके जडधियः .4

किमीह किङ्काय स खलु किमुपायस्त्रिभुवनम्
किमाधारो धाता सृजति किमुपादान इति च
अतर्कैश्वर्यै त्वय्यनवसरदुःस्तो हतधियः
कुतर्कोऽयं कान्श्चिन्मुखरयति मोहाय जगतः .5

अजन्मानो लोकाः किमवयववन् ऽ तोपि जगता-
मधिष्ठातारं किम् भवविधिर्-अनादृत्य (anaadritya) भवति
अनीशो वा कुर्याद् भुवनजनने कः परिकरो
यतो मन्दास्त्वाम् प्रत्यमरवर संशेरत इमे .6

त्रयी साङ्ख्यं योगः पशुपतिमतं वैष्णवमिति
प्रभिन्ने प्रस्थाने परमिदमदः पथ्यमिति च
रुचीनां वैचित्र्यादृजुकुटिलनानापथजुषाम्
नृणामेको गम्यस्त्वमसि पयसामर्णव इव .7

महोक्षः खट्वाङ्गं परशुरजिनं भस्म फणिनः
कपालं चेतीयत्तव वरद तन्त्रोपकरणं
सुरास्तां तामृधिं दधति च भवद्भ्रूप्रणिहिताम्
न हि स्वात्मारामं विषयमृगतृष्णा भ्रमयति .8

ध्रुवं कश्चित् सर्वम् सकलमपरस्त्व-ध्रुवमिदं
परो ध्रौव्याध्रौव्ये जगति गदति व्यस्तविषये
समस्ते ऽप्येतस्मिन् पुरमथन तैर्विस्मित इव
स्तुवंजिह्रेमि (jih-remi) त्वां न खलु ननु धृष्टा मुखरता .9

तवैश्चर्यम् यत्नाद् यदुपरि विरिञ्चो हरिरधः
परिच्छेत्तुं यातावनलमनलस्कन्ध-वपुषः
ततो भक्तिश्रद्धाभरगुरुगृणद्भ्याम् गिरिश यत्
स्वयं तस्थे ताभ्यां तव किमनुवृत्तिर्न फलति .10

अयत्नादापाद्य त्रिभुवनमवैरव्यतिकरम्
दशास्यो यद् बाहूनभृत रणकण्डूपरवशान्
शिरःपद्मश्रेणीरचितचरणाम्भोरुहबलेः
स्थिरायास्तवद्भक्तेस्त्रिपुरहर विस्फूर्जितमिदं .11

अमुष्य त्वत्सेवासमधिगतसारं भुजवनम्
बलात् कैलासेऽपि त्वदधिवसतौ विक्रमयतः
अलभ्या पातालेऽप्यलसचलितांगुष्ठशिरसि
प्रतिष्ठा त्वय्यासीद् ध्रुवमुपचितो मुह्यति खलः .12

यदृद्धिं सुत्राम्णो वरद परमोच्चैरपि सती
मधश्चक्रे बाण: परिजनविधेयत्रिभुवन:
न तच्चित्रं तस्मिन् वरिवसितरि त्वच्चरणयोर्न
कस्याप्युन्नत्यै भवति शिरसस्त्वय्यवनति: .13

अकाण्डब्रह्माण्डक्षयचकितदेवासुरकृपा
विधेयस्यासीद्यस्त्रिनयनविषं संहृतवत:
स कल्माष: कण्ठे तव न कुरुते न श्रियमहो
विकारोऽपि श्लाघ्यो भुवनभयभंगव्यसनिन: .14

असिद्धार्थानैव क्वचिदपि सदेवासुरनरे
निवर्तन्ते नित्यं जगति जयिनो यस्य विशिखा:
स पश्यन्नीश त्वामितरसुरसाधारणमभूत्
स्मर: स्मर्तव्यात्मा नहि वशिषु पथ्य: परिभव: .15

मही पादाघाताद् व्रजति सहसा संशयपदम्
पदं विष्णोर्भ्राम्यद्भुजपरिघरुग्णग्रहगणम्
मुहुर्द्यौर्दौ:स्थ्यं यात्यनिभृतजटाताडिततटा
जगद्रक्षायै त्वं नटसि ननु वामैव विभुता .16

वियद्व्यापी तारागणगुणितफेनोद्ग्मरुचि:
प्रवाहो वारां य: पृषतलघुदृष्ट: शिरसि ते
जगद् द्वीपाकारं जलधिवलयं तेन कृतमि
त्यनेनैवोन्नेयं धृतमहिम दिव्यं तव वपु: .17

रथ: क्षोणी यन्ता शतधृतिरगेन्द्रो धनुरथो
रथांगे चन्द्रार्कौ रथचरणपाणि: शर इति
दिधक्षोस्ते कोऽयं त्रिपुरतृणमाडम्बरविधि
र्विधेयै: क्रीडन्त्यो न खलु परतन्त्रा: प्रभुधिय: .18

हरिस्ते साहस्त्रं कमलबलिमाधाय पदयोर्य-
देकोने तस्मिन् निजमुदहरन्नेत्रकमलं
गतो भक्त्युद्रेक: परिणतिमसौ चक्रवपुषा
त्रयाणां रक्षायै त्रिपुरहर जागर्ति जगतां .19

क्रतौ सुप्ते जाग्रत्त्वमसि फलयोगे क्रतुमतां
क्व कर्म प्रध्वस्तं फलति पुरुषाराधनमृते
अतस्त्वां सम्प्रेक्ष्य क्रतुषु फलदानप्रतिभुवं
श्रुतौ श्रद्धां बद्ध्वा दृढपरिकर: कर्मसु जन: .20

क्रियादक्षो दक्ष: क्रतुपतिरधीशस्तनुभृता –
मृषीणामार्त्विज्यं शरणद सदस्या: सुरगणा:
क्रतुभ्रेषस्त्वत्त: क्रतुफलविधानव्यसनिनो
ध्रुवं कर्तु: श्रद्धाविधुरमभिचाराय हि मखा: .21

प्रजानाथं नाथ प्रसभमभिकं स्वां दुहितरं
गतं रोहिद्भूतां रिरमयिषुमृष्यस्य वपुषा
धनुष्पाणेर्यातं दिवमपि सपत्राकृतममुं
त्रसन्तं तेऽद्यापि त्यजति न मृगव्याधरभस: .22

स्वलावण्याशंसाधृतधनुषमह्नाय तृणवत्
पुर: प्लुष्टं दृष्ट्वा पुरमथन पुष्पायुधमपि
यदि स्त्रैणं देवी यमनिरतदेहार्धघटना
दवैति त्वामद्धा बत वरद मुग्धा युवतय: .23

श्मशानेष्वाक्रीडा स्मरहर पिशाचा: सहचरा
श्चिताभस्मलेप: स्त्रगपि नृकरोटीपरिकर:
अमंगलल्यं शीलं तव भवतु नामैवमखिलम्
तथापि स्मर्तृणाम् वरद परमं मंगलमसि .24

मन: प्रत्यक्चित्ते सविधमवधायात्तमरुत:
प्रहृष्यद्रोमाण: प्रमदसलिलोत्संगितदृश:
यदालोक्याह्लादं हृद इव निमज्यामृतमये
दधत्यन्तस्तत्त्वं किमपि यमिनस्तत् किल भवान् .25

त्वमर्कस्त्वं सोमस्त्वमसि पवनस्त्वं हुतवह-
स्त्वमापस्त्वं व्योम त्वमु धरणिरात्मा त्वमिति च
परिच्छिन्नामेवं त्वयि परिणता बिभ्रतु गिरम्
न विद्मस्तत्तत्त्वं वयमिह तु यत्त्वं न भवसि .26

त्रयीं तिस्त्रो वृत्तीस्त्रिभुवनमथो त्रीनपि सुरा-
नकाराद्यैर्वर्णैस्त्रिभिरभिदधत् तीर्णविकृति ।
तुरीयं ते धाम ध्वनिभिरवरुन्धानमणुभि:
समस्तं व्यस्तं त्वं शरणद गृणात्योमिति पदम् .27

भव: शर्वो रुद्र: पशुपतिरथोग्र: सहमहां-
स्तथा भीमेशानाविति यदभिधानाष्टकमिदम्
अमुष्मिन् प्रत्येकं प्रविचरति देव श्रुतिरपि
प्रियायास्मै धाम्ने प्रविहितनमस्योऽस्मि भवते .28

नमो नेदिष्ठाय प्रियदव दविष्ठाय च नमो
नम: क्षोदिष्ठाय स्मरहर महिष्ठाय च नम:
नमो वर्षिष्ठाय त्रिनयन यविष्ठाय च नमो
नम: सर्वस्मै ते तदिदमिति शर्वाय च नम: .29

बहुलरजसे विश्वोत्पत्तौ भवाय नमो नम:
प्रबलतमसे तत्संहारे हराय नमो नम:
जनसुखकृते सत्त्वोद्रिक्तौ मृडाय नमो नम:
प्रमहसि पदे निस्त्रैगुण्ये शिवाय नमो नम: .30

कृशपरिणति चेत: क्लेशवश्यं क्व चेदं
क्व च तव गुणसीमोल्लंघिनी शश्वदृद्धि:
इति चकितममन्दीकृत्य मां भक्तिराधाद्
वरद चरणयोस्ते वाक्यपुष्पोपहारम् .31

असितगिरिसमं स्यात् कज्जलं सिन्धुपात्रे
सुरतरुवरशाखा लेखनी पत्रमुर्वी
लिखति यदि गृहीत्वा शारदा सर्वकालं
तदपि तव गुणानामीश पारं न याति .32

असुरसुरमुनीन्द्रैरर्चितस्येन्दुमौले-
र्ग्रथितगुणमहिम्नो निर्गुणस्येश्वरस्य
सकलगणवरिष्ठ: पुष्पदन्ताभिधानो
रुचिरमलघुवृत्तै: स्तोत्रमेतच्चकार .33

अहरहरनवद्यं धूर्जटे: स्तोत्रमेतत्
पठति परमभक्त्या शुद्धचित्त: पुमान् य:
स भवति शिवलोके रुद्रतुल्यस्तथात्र
प्रचुरतरधनायु: पुत्रवान् कीर्तिमांश्च .34

महेशान्नापरो देवो महिम्नो नापरा स्तुति:
अघोरान्नापरो मन्त्रो नास्ति तत्त्वं गुरो: परम् .35
दीक्षा दानम् तपस्तीर्थं ज्ञानं यागादिका: क्रिया:
महिम्न: स्तवपाठस्य कलां नार्हन्ति षोडशीम् .36

कुसुमदशननामा सर्वगन्धर्वराज:
शिशुशशिधरमौलेर्देवदेवस्य दास:
स खलु निजमहिम्नो भ्रष्ट एवास्य रोषात्
स्तवनमिदमकार्षीद् दिव्यदिव्यं महिम्न: .37

सुरवरमुनिपूज्यं स्वर्गमोक्षैकहेतुं
पठति यदि मनुष्य: प्रांजलिर्नान्यचेता:
व्रजति शिवसमीपं किन्नरै: स्तूयमान:
स्तवनमिदममोघं पुष्पदन्तप्रणितम् .38

आसमाप्तमिदं स्तोत्रं पुण्यम् गन्धर्वभाषितम्
अनौपम्यम् मनोहारि शिवमीश्वरवर्णनम् .39

इत्येषा वाड्मयी पूजा श्रीमच्छंकरपादयो:
अर्पिता तेन देवेश: प्रीयतां मे सदाशिव: .40

तव तत्त्वं न जानामि कीदृशोऽसि महेश्वर
यादृशोऽसि महादेव तादृशाय नमो नम: .41

एककालं द्विकालं वा त्रिकालं य: पठेन्नर:
सर्वपापविनिर्मुक्त: शिवलोके महीयते .42

श्रीपुष्पदन्तमुखपंकजनिर्गतेन
स्तोत्रेण किल्बिषहरेण हरप्रियेण
कण्ठस्थितेन पठितेन समाहितेन
सुप्रीणितो भवति भूतपतिर्महेश: .43

।इति गन्धर्वराजपुष्पदन्तकृतं शिवमहिम्न: स्तोत्रम् सम्पूर्णम्। 

Related Posts-
Shiv Tandav Stotram Lyrics in hindi
Shiv Panchakshara Stotram Lyrics
Shiva Raksha Stotram lyrics 
Shiv Chalisa lyrics in Hindi

Comments